Skandapurāṇa Adhyāya 7 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0070010: वायुरुवाच| SP0070011: ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः| SP0070012: भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत|| १|| SP0070021: तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम्| SP0070022: ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम्|| २|| SP0070031: तस्य तुष्टस्तदा देवो वरदो ऽस्मीत्यभाषत| SP0070032: वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते|| ३|| SP0070040: ब्रह्मोवाच| SP0070041: इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम्| SP0070042: येन चिह्नेन लोको ऽयं चिह्नितः स्याज्जगत्पते|| ४|| SP0070051: तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः| SP0070052: सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह|| ५|| SP0070061: शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी| SP0070062: निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत|| ६|| SP0070071: तामुवाच तदा देवो वाचा संजीवयन्निव| SP0070072: यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता| SP0070073: सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि|| ७|| SP0070081: यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता| SP0070082: तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि|| ८|| SP0070091: इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे| SP0070092: सर्वांल् लोकांस्तारयित्री पुनस्त्वं नात्र संशयः|| ९|| SP0070101: यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः| SP0070102: पुण्या च सर्वसरितां भविष्यसि न संशयः|| १०|| SP0070111: ततः सा समनुज्ञाता शंकरेण विभाविनी| SP0070112: चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोके ऽतिपावनम्|| ११|| SP0070121: तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम्| SP0070122: नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम्| SP0070123: ततो विनिःसृता भूयः सेमं लोकमपावयत्|| १२|| SP0070131: तं गृहीत्वा महादेवः कपालममितौजसम्| SP0070132: इमं लोकमनुप्राप्य देशे श्रेष्ठे ऽवतिष्ठत|| १३|| SP0070141: तत्र तच्च महद्दिव्यं कपालं देवताधिपः| SP0070142: स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः|| १४|| SP0070151: तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः| SP0070152: अनदन्सुमहानादं नादयन्तो दिशो दश| SP0070153: क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत|| १५|| SP0070161: तेन शब्देन घोरेण असुरो देवकण्टकः| SP0070162: हालाहल इति ख्यातस्तं देशं सो ऽभ्यगच्छत|| १६|| SP0070171: अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः| SP0070172: ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः| SP0070173: महिषश्छन्नरूपाणामसुराणां शतैर्वृतः|| १७|| SP0070181: तमापतन्तं सक्रोधं महिषं देवकण्टकम्| SP0070182: सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः|| १८|| SP0070191: दैत्यो ऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः| SP0070192: आयाति त्वरितो यूयं तस्मादेनं निहन्यथ|| १९|| SP0070201: ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम्| SP0070202: भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे|| २०|| SP0070211: हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत| SP0070212: ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः| SP0070213: अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत्|| २१|| SP0070221: स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः| SP0070222: तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे|| २२|| SP0070231: भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः| SP0070232: कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता|| २३|| SP0070241: कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना| SP0070242: महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते|| २४|| SP0070251: स्थापितस्य कपालस्य यथोक्तमभवत्तदा| SP0070252: ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम्|| २५|| SP0070261: आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः| SP0070262: कपर्दिनमुपामन्त्र्य तं देशं सो ऽन्वगृह्णत|| २६|| SP0070271: अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः| SP0070272: भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः|| २७|| SP0070281: श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः| SP0070282: ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम्| SP0070283: गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम्|| २८|| SP0070291: एवं तत्र नरः पापं सर्वमेव प्रहास्यति| SP0070292: त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम्| SP0070293: राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति|| २९|| SP0070301: यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः| SP0070302: स गुह्यगणदेवानां समतां समवाप्स्यति|| ३०|| SP0070310: वायुरुवाच| SP0070311: ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम्| SP0070312: शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम्|| ३१|| SP0070321: तत्राभिगमनादेव कृत्वा पापस्य संक्षयम्| SP0070322: रुद्रलोकमवाप्नोति स प्राहैवं पितामहः|| ३२|| SP0070331: यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः| SP0070332: कश्मीरः सो ऽभवन्नाम्ना देशः पुण्यतमः सदा|| ३३|| SP0070341: ततो देवः सह गणै रूपं विकृतमास्थितः| SP0070342: पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः|| ३४|| SP0070351: गते च देवनाथे ऽथ कपालस्थानमव्ययम्| SP0070352: सर्वतीर्थाभिषेकस्य फलेन समयोजयत्|| ३५|| SP0070361: तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते| SP0070362: महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः|| ३६|| SP0070371: इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम्| SP0070372: महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम्|| ३७|| SP0070381: तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले| SP0070382: पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सो ऽभिनन्दितः|| ३८|| SP0079999: इति स्कन्दपुराणे सप्तमो ऽध्यायः||