Skandapurāṇa Adhyāya 30 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0300010: व्यास उवाच| SP0300011: भगवन्पिङ्गलः केन गणत्वं समुपागतः| SP0300012: अन्नदत्वं च सम्प्राप्तो वाराणस्यां महाद्युतिः|| १|| SP0300021: क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः| SP0300022: एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया|| २|| SP0300030: सनत्कुमार उवाच| SP0300031: शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः| SP0300032: अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि|| ३|| SP0300041: पूर्णभद्रसुतः श्रीमानासीद्यक्षः प्रतापवान्| SP0300042: हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह|| ४|| SP0300051: तस्य जन्मप्रभृत्येव शर्वे भक्तिरनुत्तमा| SP0300052: तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः|| ५|| SP0300061: आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन्| SP0300062: भुञ्जानो ऽथ पिबन्वापि रुद्रमेवानुचिन्तयत्|| ६|| SP0300071: तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत्| SP0300072: न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा|| ७|| SP0300081: न हि यक्षकुलीनानामेतद्वृत्तं भवत्युत| SP0300082: गुह्यका वत यूयं वै स्वभावात्क्रूरचेतसः| SP0300083: क्रव्यादाश्चैव किंभक्षा हिंसाशीलाश्च पुत्रक|| ८|| SP0300091: मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम्| SP0300092: स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते|| ९|| SP0300100: हरिकेश उवाच| SP0300101: दुष्टा चैवाप्रशस्ता च गर्हिता साधुभिः सदा| SP0300102: वृत्तिः स्वयम्भुवा सृष्टा त्यक्तव्या यदि नो भवेत्| SP0300103: आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः|| १०|| SP0300111: हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह| SP0300112: देवत्वं नो विमार्गेयुर्मानुष्यां जातिमेव च|| ११|| SP0300121: अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंश्रितम्| SP0300122: ममापि विहितं पश्य कर्मैतन्नात्र संशयः|| १२|| SP0300130: सनत्कुमार उवाच| SP0300131: स एवमुक्तः पुत्रेण पूर्णभद्रः प्रतापवान्| SP0300132: उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते|| १३|| SP0300141: ततः स निर्गतस्त्यक्त्वा गृहसम्बन्धिबान्धवान्| SP0300142: वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम्|| १४|| SP0300151: स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः| SP0300152: संनियम्येन्द्रियग्राममवातिष्ठत निश्चलः|| १५|| SP0300161: अथ तस्यैवमनिशं तत्परस्य तदाशिषः| SP0300162: सहस्रमेकं वर्षाणां दिव्यमभ्यतिवर्तत|| १६|| SP0300171: वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः| SP0300172: वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च|| १७|| SP0300181: निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दुसप्रभः| SP0300182: अस्थिशेषो ऽभवत्सर्वो देवश्चैनममन्यत|| १८|| SP0300191: एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम्| SP0300192: उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद|| १९|| SP0300201: क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे| SP0300202: यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम्|| २०|| SP0300211: इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः| SP0300212: सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे|| २१|| SP0300221: निर्जगाम च देवेशः पार्वत्या सह शंकरः| SP0300222: उद्यानं दर्शयामास देव्या देवः पिनाकधृक्|| २२|| SP0300231: प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम्| SP0300232: विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः|| २३|| SP0300241: तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः| SP0300242: अशोकपुंनागवनैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः|| २४|| SP0300251: क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर्विहंगमैश्चारुकलप्रणादिभिः| SP0300252: विनादितं सारसहंसनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः|| २५|| SP0300261: क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकायुतम्| SP0300262: क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम्|| २६|| SP0300271: मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम्| SP0300272: क्वचित्सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम्|| २७|| SP0300281: प्रगीतविद्याधरसिद्धचारणं प्रनृत्तनित्यानुगताप्सरोगणम्| SP0300282: प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम्|| २८|| SP0300291: मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः| SP0300292: प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित्|| २९|| SP0300301: निविडनिचुलनीलं नीलकण्ठाभिरामं SP0300302: मदमुदितविहंगव्रातनादाभिरामम्| SP0300303: कुसुमिततरुशाखालीनमत्तद्विरेफं SP0300304: नवकिसलयशोभाशोभितप्रान्तशाखम्|| ३०|| SP0300311: क्वचिच्च दन्तिक्षतचारुवीरुत्क्वचिल्लतालिङ्गितचारुवृक्षम्| SP0300312: क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः|| ३१|| SP0300321: पारावतध्वनिनिकूजितचारुशृङ्गैरभ्रंकषैः सितमनोहरचारुरूपैः| SP0300322: आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः|| ३२|| SP0300331: फुल्लोत्पलागरुसहस्रवितानयुक्तैस्तोयाशयैः समनुशोभितदेवमार्गम्| SP0300332: मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम्|| ३३|| SP0300341: तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर् SP0300342: मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः| SP0300343: रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं SP0300344: छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम्|| ३४|| SP0300351: हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं SP0300352: तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम्| SP0300353: मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं SP0300354: देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम्|| ३५|| SP0300361: सारङ्गैः क्वचिदुपसेवितप्रदेशं SP0300362: संछन्नं कुसुमचयैः क्वचिद्विचित्रैः| SP0300363: हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः SP0300364: क्षीवाभिः सुमधुरगीतवृक्षषण्डम्|| ३६|| SP0300371: संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैर् SP0300372: आवासैः परिवृतपादपं मुनीनाम्| SP0300373: आ मूलात्फलनिचितैः क्वचिद्विशालैर् SP0300374: उत्तुङ्गैः पनसमहीरुहैरुपेतम्|| ३७|| SP0300381: फुल्लातिमुक्तकलतागृहलीनसिद्धं SP0300382: सिद्धाङ्गनाकनकनूपुररावरम्यम्| SP0300383: रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं SP0300384: भृङ्गावलीशबलिताम्रकदम्बपुष्पम्|| ३८|| SP0300391: पुष्पोत्करानिलविघूर्णितपादपाग्रम् SP0300392: अग्रे सुरेभविनिपातितवंशगुल्मम्| SP0300393: गुल्मान्तरप्रसृतभीतमृगीसमूहम् SP0300394: ऊहावतां तनुभृतामपवर्गदातृ|| ३९|| SP0300401: चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः SP0300402: सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः| SP0300403: चामीकरप्रतिसमैरथ कर्णिकारैः SP0300404: पुष्पोत्करैरुपचितं सुविशालशाखैः|| ४०|| SP0300411: क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसंनिभैः| SP0300412: क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम्|| ४१|| SP0300421: पुंनागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम्| SP0300422: रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम्|| ४२|| SP0300431: सकलभुवनभर्ता लोकनाथस्तदानीं SP0300432: तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः| SP0300433: विविधतरुविशालं मत्तहृष्टान्यपुष्टम् SP0300434: उपवनमतिरम्यं दर्शयामास देव्याः|| ४३|| SP0300440: देव्युवाच| SP0300441: उद्यानं दर्शितं देव शोभया परया युतम्| SP0300442: क्षेत्रस्य तु गुणान्सर्वान्पुनर्वक्तुमिहार्हसि|| ४४|| SP0300451: अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तदा| SP0300452: श्रुत्वापि न हि मे तृप्तिरतो भूयो वदस्व मे|| ४५|| SP0300460: देव उवाच| SP0300461: इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम| SP0300462: सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा|| ४६|| SP0300471: अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमाश्रिताः| SP0300472: नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः| SP0300473: अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः|| ४७|| SP0300481: नानावृक्षसमाकीर्णे नानाविहगसेविते| SP0300482: कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते|| ४८|| SP0300491: अप्सरोगणगन्धर्वैः सदा संसेविते शुभे| SP0300492: रोचते मे सदावासो येन कार्येण तच्छृणु|| ४९|| SP0300501: मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः| SP0300502: यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित्|| ५०|| SP0300511: एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं महत्| SP0300512: ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः| SP0300513: अतः प्रियमिदं क्षेत्रमस्माच्चेह रतिर्मम|| ५१|| SP0300521: विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन| SP0300522: मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम्|| ५२|| SP0300531: नैमिशे ऽथ कुरुक्षेत्रे गङ्गाद्वारे ऽथ पुष्करे| SP0300532: स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः| SP0300533: इह सम्प्राप्यते येन तत एतद्विशिष्यते|| ५३|| SP0300541: प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात्| SP0300542: प्रयागादपि तीर्थाग्र्यादिदमेव महत्स्मृतम्|| ५४|| SP0300551: जैगीषव्यः परां सिद्धिं यो गतः स महातपाः| SP0300552: अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावतः|| ५५|| SP0300561: जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते| SP0300562: ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्| SP0300563: कैवल्यं परमं याति देवानामपि दुर्लभम्|| ५६|| SP0300571: अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः| SP0300572: इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित्|| ५७|| SP0300581: तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम्| SP0300582: आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च|| ५८|| SP0300591: कुबेरः स महायक्षस्तथा सर्वार्पितक्रियः| SP0300592: क्षेत्रसंसेवनाद्देवि गणेशत्वमवाप ह|| ५९|| SP0300601: संवर्तो भविता यश्च सो ऽपि भक्त्या ममैव तु| SP0300602: इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्|| ६०|| SP0300611: पराशरसुतो योगी ऋषिर्व्यासो महातपाः| SP0300612: धर्मवक्ता भविष्यश्च वेदसंस्थाप्रवर्तकः| SP0300613: रंस्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन्मुनिपुंगवः|| ६१|| SP0300621: ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वायुर्दिवाकरः| SP0300622: देवराजस्तथा शक्रो ये ऽपि चान्ये दिवौकसः| SP0300623: उपासते महात्मानः सर्वे मामिह सुव्रते|| ६२|| SP0300631: अन्ये च योगिनः सिद्धाश्छन्नरूपा महाव्रते| SP0300632: अनन्यमनसो भूत्वा मामिहोपासते सदा|| ६३|| SP0300641: अलर्कश्च पुरीमेतां मत्प्रसादादवाप्स्यति| SP0300642: स चैनां पूर्ववत्कृत्वा चतुर्वर्णसमाकुलाम्|| ६४|| SP0300651: स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः| SP0300652: मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते|| ६५|| SP0300661: ततः प्रभृति चार्वङ्गि ये ऽपि क्षेत्रनिवासिनः| SP0300662: गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः| SP0300663: मत्प्रसादाद्गमिष्यन्ति मोक्षं परमदुर्गमम्|| ६६|| SP0300671: विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर्नरः| SP0300672: इह क्षेत्रे मृतः सो ऽपि संसारं न पुनर्विशेत्|| ६७|| SP0300681: ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः| SP0300682: व्रतिनश्च निरारम्भाः सर्वतो मयि भाविताः|| ६८|| SP0300691: देहभेदं समासाद्य धीमन्तः सङ्गवर्जिताः| SP0300692: गता एव परं मोक्षं प्रसादान्मम सुव्रते|| ६९|| SP0300701: जन्मान्तरसहस्रेषु युञ्जन्योगी यमाप्नुयात्| SP0300702: तमिहैव परं मोक्षं मरणादधिगच्छति|| ७०|| SP0300711: एतत्संक्षेपतो देवि क्षेत्रस्यास्य महत्फलम्| SP0300712: अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम्|| ७१|| SP0300721: अतः परतरं नास्ति क्षेत्रं गुह्यमितीश्वरि| SP0300722: एतद्बुध्यन्ति योगज्ञा ये च योगीश्वरा भुवि|| ७२|| SP0300731: एतदेव परं ज्ञानमेतदेव परं शिवम्| SP0300732: एतदेव परं ब्रह्म एतदेव परं पदम्|| ७३|| SP0300741: वाराणसीति भुवनत्रयसारभूता SP0300742: रम्या पुरी मम सदा गिरिराजपुत्रि| SP0300743: अत्रागता विविधदुष्कृतकारिणो ऽपि SP0300744: पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः|| ७४|| SP0300751: एतत्स्मृतं प्रियतमं मम देवि नित्यं SP0300752: क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम्| SP0300753: अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति SP0300754: मोक्षाख्यमेनसि रतापि न संशयो ऽत्र|| ७५|| SP0309999: इति स्कन्दपुराणे त्रिंशत्तमो ऽध्यायः||