Skandapurāṇa Adhyāya 68 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0680010: सनत्कुमार उवाच| SP0680011: अथ ता देवता देवी कौशिकी देहसम्भवाः| SP0680012: न्यवेशयन्महाभागा देशेषु नगरेषु च|| १|| SP0680021: बहुपुत्रां प्रलम्बां च लङ्कायां संन्यवेशयत्| SP0680022: लम्बौष्ठीं वृषदंशां च किंनरीं चैव सिंहले|| २|| SP0680031: गोकर्णे रेवतीं देवीं पाण्ड्येषु मुखमण्डिकाम्| SP0680032: आभीरेषु शिवां चैव शान्तिं च वरणातटे|| ३|| SP0680041: वत्सगुल्मे प्रभां देवीं लक्ष्मीं कोलगिरावपि| SP0680042: उपकां पारसीकेषु वायसीं यवनेषु च|| ४|| SP0680051: प्रचण्डां च तुखारेषु कौसलेषु च लम्बिकाम्| SP0680052: जयां च विजयां चैव स्वपुरे संन्यवेशयत्|| ५|| SP0680061: प्रभावती कलिङ्गेषु जयन्ती नागसाह्वये| SP0680062: काश्मीरेषु स्थिता षष्ठी सरमा मलयेषु च|| ६|| SP0680071: पूतनां च सुवीरेषु मृत्युं पिष्टपुरे तथा| SP0680072: कोटीवर्षे बहुमांसां पौण्ड्रेषु कटपूतनाम्|| ७|| SP0680081: अस्पृष्टां मध्यदेशे तु किंनरीं बर्बरेषु च| SP0680082: वाराणस्यां निरायासां चित्रघण्टां च कौशिकी| SP0680083: महाकालीं महाकाले वानरीं शबरेषु च|| ८|| SP0680091: शेषाश्च देवताः सर्वा ग्रामेषु नगरेषु च| SP0680092: कर्वटेषु महीध्रेषु कौशिकी संन्यवेशयत्|| ९|| SP0680101: कस्यचित्त्वथ कालस्य स्वर्णाक्षे हि महातपाः| SP0680102: यत्र विष्णुर्वरांल् लेभे देवमाराध्य शंकरम्| SP0680103: चक्रं सुदर्शनं नाम द्विषतामन्तकोपमम्|| १०|| SP0680111: ऋषिरास्ते महाभागः शरद्वान्नाम गौतमः| SP0680112: तस्य यज्ञं जगामाथ देवी तेन निमन्त्रिता|| ११|| SP0680121: तस्यास्तत्रागमं ज्ञात्वा सूनुः सुम्भस्य वीर्यवान्| SP0680122: आजगामाशु तं देशं महिषो नाम दानवः|| १२|| SP0680131: सुसंहतः पृथूरस्को महाग्रीवः सुवालधिः| SP0680132: वक्रशृङ्गः पृथुखुरो विशालोच्छ्रितमस्तकः|| १३|| SP0680141: बद्धवैराशयः क्रूरो महासत्त्वो ऽतिदुर्जयः| SP0680142: वज्रनिष्पेषपरुषं नर्दमानो महास्वनः|| १४|| SP0680151: अञ्जनाद्रिसमप्रख्यो युयुत्सुर्बलदर्पितः| SP0680152: देव्याः पन्थानमावृत्य दानवेन्द्रसुतः स्थितः|| १५|| SP0680161: विज्ञाय तस्यागमनं योगेशा विन्ध्यवासिनी| SP0680162: जगाम त्वरिता तत्र यत्रासौ दानवाधमः|| १६|| SP0680171: अथ दृष्ट्वा स तां देवीं क्रोधाद्रक्ततरेक्षणः| SP0680172: अभ्याजगाम वेगेन यत्नमास्थाय दानवः|| १७|| SP0680181: उद्वालधिस्तीक्ष्णविषाणकोटिः सुपीनवक्षाः कठिनोर्ध्वकर्णः| SP0680182: अभ्यापतद्गुग्गुलुताम्रनेत्रो जवेन देवीमसिताद्रिकल्पः|| १८|| SP0680191: तं कौशिकी वीक्ष्य तदापतन्तं दैत्येन्द्रपुत्रं महिषं सरोषम्| SP0680192: चुक्रोध ताम्रायतचारुनेत्रा स्थिता धरण्यामसुरेन्द्रहन्त्री|| १९|| SP0680201: अभ्येत्य तां दानवराजसूनुर्बलेन मत्तः परमेण देवीम्| SP0680202: अभ्याहनद्वक्षसि लोलहारे शृङ्गेण शक्रायुधकर्कशेन|| २०|| SP0680211: विषह्य तं तस्य तदा प्रहारं जग्राह शृङ्गे महिषं करेण| SP0680212: उद्भ्राम्य चोच्चैः परितः सरोषा न्यपातयद्भूमितले श्वसन्तम्|| २१|| SP0680221: उद्गृह्य सा वालधिमिन्द्रशत्रोः कृत्वा च पादं शिरसि प्रसह्य| SP0680222: त्रिशूलमादाय बिभेद पृष्ठे व्ययोजयच्चासुभिराशु दैत्यम्|| २२|| SP0680231: कुलिशकठिनशृङ्गं नीलजीमूतकल्पं SP0680232: महिषमथ निहत्य प्रौढदर्पं तदानीम्| SP0680233: विविधकुसुमवृष्ट्या सर्वतः कीर्यमाणा SP0680234: धरणिधरमगच्छत्कौशिकी स्वं निवासम्|| २३|| SP0689999: इति स्कन्दपुराणे ऽष्टषष्टो ऽध्यायः||